REET Level 1 Exam Paper 26-Sep-2021 Official Answer Key

Paper I – (Section – III, Language – II Sanskrit)
(Answer Key)
खण्ड – III (भाषा – II संस्कृत)

Q61. वर्णमालाविधि:, शब्दशिक्षणविधि: वाक्यशिक्षणविधि: इति त्रयो विधयः सन्ति
(A) वाचन शिक्षणे
(B) श्रवण शिक्षणे
(C) चिन्तन शिक्षणे
(D) स्मरणे
Answer – (A)

Q62. अधीतानां पाठानां स्मरणाय प्रबलं साधनं भवति
(A) श्यामपट्टः
(B) पाठ्य पुस्तकम्
(C) चित्राणि
(D) संगणकयन्त्रम्
Answer – (B)

Q63. यत्र प्रश्नेषु द्वौ स्तम्भौ निर्मीयते। एकस्मिन् स्तम्भे एक तथ्यं भवति, द्वितीये चापरः। द्वयो: तथ्ययो: परस्परं सम्बन्ध: भवति। अत्र प्रश्नस्य प्रकार: भवति
(A) एकान्तर विकल्प:
(B) बहुविकल्प:
(C) मेलनम्
(D) रिक्तस्थानपूर्तिः
Answer – (C)

Q64. कस्यां परीक्षायां ग्रन्थस्य कामपि समस्यां प्रस्तुतीकृत्य तस्यां छात्रा: तर्क-वितर्केण स्वविचारान् प्रकटयन्ति?
(A) शास्त्रार्थ परीक्षा
(B) साक्षात्कार परीक्षा
(C) लिखित परीक्षा
(D) निबन्धात्मक परीक्षा
Answer – (A)

Q65. प्राचीनविधिना शिक्षारम्भ: कस्मात्परं भवति स्म?
(A) कर्णवेधसंस्कारात्
(B) समावर्तन संस्कारात्
(C) विवाह संस्कारात्
(D) उपनयनसंस्कारात्
Answer – (D)

Q66. निम्नलिखितसूक्ते: समुचितपदेन रिक्तस्थानं पूरयत –
“ज्ञानं भार: __ विना।”
(A) धनं
(B) क्रियां
(C) दानं
(D) विद्या
Answer – (B)

Q67. अष्टाविंशति: संख्या अस्ति
(A) 820
(B) 28
(C) 38
(D) 48
Answer – (B)

Q68. “विद्यालये सुरक्षानियमान् पालयिष्यामः।” रेखाङ्किते पदे लकार: अस्ति
(A) लृट् लकार:
(B) लट् लकार
(C) ललकार
(D) लोट् लकार
Answer – (A)

Q69. ‘धनवान्’ इत्यस्मिन् पदे प्रत्यय: अस्ति
(A) क्तवतु
(B) वति
(C) मतुप्
(D) शान
Answer – (C)

अधोलिखितम् अपठितं पद्यांशं पठित्वा निम्नाङ्किता: प्रश्ना: (70-75) समाधेया:

गाव: प्रसन्ना: मनुजा: प्रसन्नाः,
देवा: प्रसन्ना: व्रतदानयज्ञैः।
किं नाम तद्यन्न मरौ समृद्धं,
विद्यासमृद्धो भवता विधेय।।

Q70. ‘व्रतदानयज्ञैः’ इत्यत्र कः समास: अस्ति?
(A) बहुव्रीहिसमास:
(B) द्वन्द्वसमास:
(C) कर्मधारयसमास:
(D) तत्पुरुषसमास:
Answer – (B)

Q71. ‘तद्यन्न’ इत्यत्र सन्धिः अस्ति
(A) अयादिसन्धिः
(B) गुणसन्धि:
(C) व्यञ्जनसन्धि:
(D) विसर्गसन्धि:
Answer – (C)

Q72. ‘प्रसन्न:’ अत्र क: प्रत्यय: प्रयुक्त:?
(A) क्त:
(B) शतृ
(C) ल्युट्
(D) ण्वुल्
Answer – (A)

Q73. ‘भवता’ इत्यत्र का विभक्तिः अस्ति?
(A) तृतीयाबहुवचनम्
(B) चतुर्थीएकवचनम्
(C) षष्ठीएकवचनम्
(D) तृतीयाएकवचनम्
Answer – (D)

Q74. ‘नाम’ इत्यत्र किं लिङ्गम?
(A) पुँल्लिङ्गम्
(B) स्त्रिलिङ्गम्
(C) नपुंसकलिङ्गम्
(D) नामलिङ्गम्
Answer – (C)

Q75. उपर्युक्तपद्यांशे प्रयुक्तस्य छन्दस: नाम किम्?
(A) उपजाति:
(B) इन्द्रवज्रा
(C) उपेन्द्रवज्रा
(D) वंशस्थ:
Answer – (B)

Q76. “या भाषा अध्यापनीया सा तस्याः माध्यमेनैव बोधनीया भवति।” अत्र कः भाषाशिक्षणविधिः प्रयुक्त भवति?
(A) परम्परागत विधि:
(B) प्रत्यक्ष विधि:
(C) पाठ्यपुस्तक विधि:
(D) भण्डारकर विधि:
Answer – (B)

Q77. भाषाया: प्राथमिकं कौशलम् अस्ति
(A) भाषणम्
(B) पठनम्
(C) लेखनम्
(D) श्रवणम्
Answer – (D)

Q78. पठनकौशले भवति
(A) सस्वर वाचनं मौनवाचनञ्च
(B) शुद्धलेखनं परिमार्जनञ्च
(C) अन्त्याक्षरी श्लोकलेखनञ्च
(D) भाषांशस्य लिपिरूपे अवतारणम्
Answer – (A)

Q79. निदानात्मकपरीक्षणोपरान्ते बालकस्य न्यूनतापरिष्काराय शिक्षक: विशिष्टं शिक्षणं कारयति, तस्य नाम किम्?
(A) निदानात्मक शिक्षणम्
(B) सामान्य शिक्षमण्
(C) उपचारात्मक शिक्षणम्
(D) मिश्रित शिक्षणम्
Answer – (C)

Q80. बालकस्य मूल्याङ्कनं भवति
(A) वर्षे केवलमेकवारम्
(B) वर्षे द्विवारम्
(C) वर्षे त्रिवारम्
(D) सततम्
Answer – (D)

Q81. ‘मुझे फल अच्छा लगता है।’ इति वाक्यस्य संस्कृतानुवादं कुरुत
(A) माम् फलं रोचते
(B) मह्यं फलं रोचते
(C) मम फलं रोचते
(D) अहं फलं रोचते
Answer – (B)

Q82. लुतुलसानां. __ । रिक्तस्थानं पूरयत
(A) दन्ता:
(B) जिह्वा
(C) कण्ठः
(D) मूर्धा
Answer – (A)

Q83. “अहं पुस्तकं पठामि”अस्य वाक्यस्य वाच्यपरिवर्तन भवति
(A) अहं पुस्तकं पठ्यते
(B) मया पुस्तकं पठामि
(C) मया पुस्तकानि पठामि
(D) मया पुस्तकं पठ्यते
Answer – (D)

Q84. वाकयमिदं संशोधयत – नगरेण परित: क्षेत्राणि सन्ति –
(A) नगरस्य परित: क्षेत्राणि सन्ति
(B) नगरात् परित: क्षेत्राणि सन्ति
(C) नगरं परित: क्षेत्राणि सन्ति
(D) नगराय परित: क्षेत्राणि सन्ति
Answer – (C)

निम्नलिखितम् अपठित गद्यांशम् आधारीकत्य निम्नाकिता: प्रश्ना: (85-90) समाधेया: –

इदं हि विज्ञानप्रधानं युगम्। अस्यां शताब्द्यां सर्वत्र विज्ञानस्यैव प्रभाववो दृश्यते। अधुना नहि तादृशं किमपि कार्य यत्र विज्ञानस्य साहाय्यं न अपेक्ष्यते। सम्प्रति मानव: प्रकृति वशीकृत्य तां स्वेच्छया कार्येषु नियुङ्क्ते। वैज्ञानिकैरनेके आविष्कारा: विहिताः। मानवजाते: हिताहितम् अपश्यद्भिः वैज्ञानिकै: राजनीतिविज्ञैर्वा परमाणुशक्ते: अस्त्रनिर्माणे एव विशेषत: उपयोगो विहितः। तदुत्पादितं च लोकध्वंसकार्यम् अतिघोरं भवति। अतोऽस्य यथाशक्ति मानवकलयाणार्थमेव प्रयोग: करणीय:।

Q85. ‘अस्यां’ इत्यस्य का विभक्ति: अस्ति?
(A) प्रथमा
(B) द्वितीय
(C) षष्ठी
(D) सप्तमी
Answer – (D)

Q86. “विज्ञानस्यैव” पदे सन्धि-विच्छेद: करणीय:
(A) विज्ञानस्य + इव
(B) विज्ञानस्ये + ऐव
(C) विज्ञा + नस्यैव
(D) विज्ञानस्य + एव
Answer – (D)

Q87. ‘करणीय’ इत्यत्र क: प्रत्यय:?
(A) कृ+ अनीयर्
(B) कृ+ शतृ
(C) कृ+ ल्युट्
(D) कृ+ शानच्
Answer – (A)

Q88. “वैज्ञानिकैरनेके आविष्कारा: विहिताः। इत्यत्र अनेके विशेषणपदस्य विशेष्यपदं किम्”?
(A) वैज्ञानिकैः
(B) अनेके
(C) आविष्कारा:
(D) विहिता:
Answer – (C)

Q89. ‘यथाशक्ति’ इत्यत्र समासविग्रह भवति
(A) शक्तिम् अनतिक्रम्य
(B) शक्ते: अभाव:
(C) शक्ते: समीपम्
(D) शक्ते: योग्यम्
Answer – (A)

Q90. “सम्प्रति मानव: प्रकृति वशीकृत्य तां __ नियुङ्क्ते” अस्मिन् वाक्ये अव्ययपदम् अस्ति
(A) मानव:
(B) सम्प्रति
(C) प्रकृति
(D) ताम्
Answer – (B)


error: Content is protected !!